Vernacular Names
Assamese
Dilk
Bengali
Bahnaree
Relational Concept Map
🌱 Plant Information
Etymology
| Sanskrit Synonym | Sanskrit (Diacritical) | Reference | Etymology (Sanskrit) | English Meaning |
|---|---|---|---|---|
| श्लेष्मातकः | Śleṣmātakaḥ | श्लेष्माणं कफमतति उत्क्लेशयतीति; ‘अत सातत्यगमने’, अथवा-श्लेष्मणा सादृश्येनाततीति, कफसदृशफलमज्ज इत्यर्थः । | ||
| उद्दालः | Uddālaḥ | उद्दालयत्युन्मूलयति रोगानिति । ‘कुद्दालः’ इति पर्यायरत्नमाला, तत्र ‘कुत्सितान् रोगान् दालयतीति’ । | ||
| कान्तवृक्षकः | Kāntavṛkṣakaḥ | शोभनोऽल्पप्रमाणो वृक्षः । ‘भूतवृक्षकः’ इति पाठे’ भूतानामावासो वृक्षकः’ इति । | ||
| गन्धपुष्पः | Gandhapuṣpaḥ | गन्धवन्ति पुष्पाण्यस्य । | ||
| द्विजकुत्सितः | Dvijakutsitaḥ | द्विजैः कुत्सितो निन्दितः, तामसप्रकृतित्वात्; अथवा-‘द्विजानां पक्षिणामप्रियः’ । | ||
| पिच्छिलः | Picchilaḥ | पिच्छिलफलमज्जत्वात् । | ||
| बहुफलः | Bahuphalaḥ | बहु प्रचुरं फलतीति । | ||
| बहुवारः | Bahuvāraḥ | बहून् रोगान वारयति नाशयतीति; अथवा-बहुभिर्व्रियते इति । | ||
| मुक्ताफलः | Muktāphalaḥ | मुक्ताकारं फलमस्य । | ||
| लेखशाटकः | Lekhaśāṭakaḥ | लेखं पत्रं शाटयति संश्लेषयतीति । | ||
| वासन्तकुसुमः | Vāsantakusumaḥ | वसन्ते कुसुमागमोऽस्य । | ||
| विषघाती | Viṣaghātī | विषं हन्तीति । | ||
| शीतफलः | Śītaphalaḥ | शीतं वीर्ये स्पर्शे च फलमस्य । भावप्रकाशे ‘शीतः’ इति । | ||
| शेलुः | Śeluḥ | अतिशयेन शेतेऽस्मादिति; अथवा-शिलति निवारयति रोगानिति । | ||
| शैलूषः | Śailūṣaḥ | शैले पार्वत्यप्रदेशे भवः, ‘शैलुः’ इति धन्वन्तरिः । |