Plant Information Dashboard

Coriandrum sativum - Dhānyaka

IIIF Manifest (JSON)
Plant QR Code
Scan to view this plant on mobile.
Download QR Code
Scientific Profile
Scientific Name Coriandrum sativum Linn.
Substance Origin Plant | Audbhida/udbhija
Vernacular Names
Assamese

Dhaniya

Bengali

Dhane

Relational Concept Map

Click a category such as Gana to open its related data. Click it again to collapse the data.

🌱 Plant Information

Etymology


Sanskrit Synonym Sanskrit (Diacritical) Reference Etymology (Sanskrit) English Meaning
धान्यकम्Dhānyakamधान्याकारफलत्वात् ।
अल्लकाAllakāइदं क्षेत्रीयनाम् प्रतीयते । हृदयदीपके मदननिघण्टौ चास्य निर्देशः ।
कुनटीKunaṭīकौ भूमौ नटति नृत्यतीव हरितौषधिः ।
कुस्तुम्बुरुःKustumburuḥकुत्सितं तुम्बुरु तुम्बुर्वाकारं फलं, कुत्सितत्वं तत्तैक्ष्ण्याभावात् ।
छत्रधान्यम्Chatradhānyamछत्राकारपुष्पव्यूहयुक्तं धान्यम् ।
छत्राChatrāछत्राकारपुष्पव्यूहत्वात् ।
धान्यबीजःDhānyabījaḥधान्यवद् बीजमस्य ।
धेनुकाDhenukāधीयते इति, ‘धेट् पाने’ ।
वितुन्नकम्Vitunnakamविगतं तुन्नमस्मात्, व्याधिनाशकत्वात् ।
वेषणाग्र्याVeṣaṇāgryāवेषणेषु भोज्यसंस्कारकद्रव्येषु श्रेष्ठा ।
शाकयोग्यःŚākayogyaḥशाके प्रयुक्तः ।
सुगन्धिःSugandhiḥशोभनो गन्धोऽस्य ।
सूक्ष्मपत्रःSūkṣmapatraḥह्रस्वानि पत्राण्यस्य ।
हृद्यगन्धाHṛdyagandhāहृद्यो गन्धोऽस्याः ।

Classifications


Properties


Classical Verse From Nighantu
6 verses
Source Varga Verse
कैयदेवनिघण्टु ओषधिवर्ग कुस्तुम्बरी वेषणाग्र्या कटुभद्रार्द्रिकाल्लका ||११९४|| धनिका धानिका धान्यं धानी धाना वितुन्नकम् | धानेयं धान्यका छत्रा हृद्यगन्ध्या च वेषणा ||११९५|| आर्द्रा कुस्तुम्बरी कुर्यात् स्वादुसौगन्ध्यहृद्यताः | शुष्का स्निग्धा स्वादुपाका कषाया कटुका लघुः ||११९६|| अवृष्या मूत्रला तिक्ता हृद्या रुच्या त्रिदोषहा | उष्णवीर्या बद्धविट्का दीपनी पाचनी जयेत् ||११९७|| तृष्णादाहवमिश्वासकासामगुदजकृमीन् | कुस्तुम्बरूत्थं मधुरं कषायं शाकं सक्तिक्तं न करोति पित्तम् | श्लेष्मानिलघ्नं लघु भेदि रुच्यं वह्निप्रदं मूत्रकरं ज्वरघ्नम् ||११९८||
धन्वन्तरिनिघण्टु शतपुष्पादिवर्ग धान्यकं धान्यका धान्या धानी धानेयकं तथा | कुस्तुम्बरुश्चाल्लका च च्छत्रधान्यं वितुन्नकम् ||६६|| आर्द्रा कुस्तुम्बुरुः कुर्यात्स्वादुः सौगन्ध्यहृद्यताम् | सा शुष्का मधुरा पाके स्निग्धा तृड्दाहनाशिनी ||६७|| धान्यकं कासतृट्छर्दिज्वरहृच्चक्षुषो हितम् | कषायं तिक्तमधुरं हृद्यं रोचनदीपनम् ||६८||
भावप्रकाशनिघण्टु हरीतक्यादिवर्ग धान्यकं धानकं धान्यं धाना धानेयकं तथा | कुनटी धेनुका छत्रा कुस्तुम्बुरु वितुन्नकम् ||७७|| धान्यकं तुवरं स्निग्धमवृष्यं मूत्रलं लघु | तिक्तं कटूष्णवीर्यञ्च दीपनं पाचनं स्मृतम् ||७८|| ज्वरघ्नं रोचकं ग्राहि स्वादुपाकि त्रिदोषनुत् | तृष्णादाहवमिश्वासकासकार्श्यक्रिमिप्रणुत् | आर्द्रन्तु तद्गुणं स्वादु विशेषात्पित्तनाशि तत् ||७९||
मदनपालनिघण्टु शुण्ठ्यादिवर्ग धान्यकं धान्यका धान्यं धानेयं च वितुन्नकम् | कुस्तुम्बुरु तदार्द्रं तु धानीधानेयकालुकाः ||४४|| धान्यकं तुवरं स्निग्धं वृष्यं मूत्रलं लघु | हृद्यं रुच्यं बद्धविट्कं स्वादु पाके त्रिदोषनुत् ||४५|| पाचनं श्वासकासास्रतृष्णामार्शः कृमीञ्जयेत् | आह्नीका तद्गुणा स्वादुर्विशेषात्पित्तनाशिनी ||४६||
राजनिघण्टु पिप्पल्यादिवर्ग धान्यकं धान्यजं धान्यं धानेयं धनिकं तथा | कुस्तुम्बुरुश्चावलिका छत्रधान्यं वितुन्नकम् ||३५|| सुगन्धिः शाकयोग्यश्च सूक्ष्मपत्रो जनप्रियः | धान्यबीजो बीजधान्यं वेधकं षोडशाह्वयम् ||३६|| धान्यकं मधुरं शीतं कषायं पित्तनाशनम् | ज्वरकासतृषाछर्दिकफहारि च दीपनम् ||३७||
सोढलनिघण्टु शतपुष्पादिवर्ग धान्यके धान्यका धानी धान्यं धानेयकं तथा ||३३१|| कुस्तुम्बरुश्चाल्लका च छत्राह्वा च वितुन्नकः | अलका हृद्यगन्धा च वेसणा रसना मता ||३३२||