Vernacular Names
Bengali
Manasasij
Relational Concept Map
🌱 Plant Information
Etymology
| Sanskrit Synonym | Sanskrit (Diacritical) | Reference | Etymology (Sanskrit) | English Meaning |
|---|---|---|---|---|
| स्नुही | Snuhī | ष्णुह्यति उद्गिरति दोषं क्षीरं वेति; ‘ष्णुह उद्गिरणे’ । | ||
| असिपत्रः | Asipatraḥ | असिवत् पत्रमस्य, ‘निस्रिंशपत्रकः’ इति धन्वन्तरिनिघण्टौ, तस्यापि स एवार्थः । | ||
| क्षीरी | Kṣīrī | क्षीरमस्यास्तीति । | ||
| गण्डीरः | Gaṇḍīraḥ | गण्डान् ग्रन्थीनीरयति यातुमिति । | ||
| गुडा | Guḍā | गुडति रक्षति; ‘गुड रक्षणे’ । | ||
| ग्रन्थिला | Granthilā | ग्रन्थियुक्तकाण्डा । | ||
| दण्डवृक्षकः | Daṇḍavṛkṣakaḥ | दण्डाकारो ह्रस्ववृक्षः । | ||
| नेत्रारिः | Netrāriḥ | नेत्रस्य शत्रुः, क्षीरस्यान्ध्यजनकत्वात् । | ||
| बहुक्षीरः | Bahukṣīraḥ | बहु क्षीरमस्य । | ||
| महावृक्षः | Mahāvṛkṣaḥ | वृश्चति छिनत्तीति वृक्षः, ‘ओव्रश्चू छेदने’ ; महांश्चासौ वृक्षश्च महावृक्षः । | ||
| युग्मकण्टकः | Yugmakaṇṭakaḥ | युग्मः कण्टकोऽस्य । | ||
| वज्रकण्टकः | Vajrakaṇṭakaḥ | वज्रवत् कठिनस्तीक्ष्णश्च कण्टकोऽस्य । | ||
| वज्रद्रुमः | Vajradrumaḥ | वज्रवत्तीक्ष्णो वृक्षः । ‘वज्री अपि तदर्थक एव । | ||
| व्याघ्रनखः | Vyāghranakhaḥ | न्याघ्रखवत् कण्टका अस्य । | ||
| श्वजिह्वपत्रः | Śvajihvapatraḥ | श्वजिह्वासदृशं पत्रमस्य । | ||
| समन्तदुग्धा | Samantadugdhā | समन्ताद् दुग्धमस्य । | ||
| सिंहतुण्डः | Siṃhatuṇḍaḥ | सिंहतुण्डवत्तीक्ष्णः । | ||
| सुधा | Sudhā | सुष्ठु दधाति क्षीरं शरीरं वा; अथवा-अमृततुल्या यथोक्तं प्रियनिघण्टौ-‘सुधा तु दोषहरणान्नाराणाम्-मृतायते’ इति | ||
| सेहुण्डः | Sehuṇḍaḥ | लौकिकी संज्ञा, सिंहतुण्डस्यापभ्रंशः । |