Plant Information Dashboard

Mesua ferrea - Nāgakeśara

IIIF Manifest (JSON)
Plant QR Code
Scan to view this plant on mobile.
Download QR Code
Scientific Profile
Scientific Name Mesua ferrea Linn.
Substance Origin Plant | Audbhida/udbhija
Vernacular Names
Assamese

Nahar, Negeshvar

Bengali

Nageshvara

Relational Concept Map

Click a category such as Gana to open its related data. Click it again to collapse the data.

🌱 Plant Information

Etymology


Sanskrit Synonym Sanskrit (Diacritical) Reference Etymology (Sanskrit) English Meaning
नागकेशरःNāgakeśaraḥनागानां हस्तिनां प्रियः केशरोऽस्य ।
काञ्चनाहृयःKāñcanāhṛyaḥस्वर्णनामधेयः, पीतकेशरत्वात् ।
कुम्भफलःKumbhaphalaḥकुम्भाकारं फलमस्य ।
केशरःKeśaraḥप्रशस्ताः केशराः सन्त्यस्य ।
चाम्पेयःCāmpeyaḥचाम्पेयपुष्पसद्रुशकेशरः ।
द्विपःDvipaḥहस्तिनां प्रियः ।
नागःNāgaḥनागाह्वः केशरः ।
नागपुष्पःNāgapuṣpaḥनागवत् सर्पफणाकाराणि पुष्पदलान्यस्य; यथोक्तं प्रियनिघण्टौ-’नागपुष्पः स्मृतो नागफणपुष्पदलो मतः’ इति ।
नागाह्वम्Nāgāhvamसप्राह्वम् ।
हेमपुष्पम्Hemapuṣpamस्वर्णवर्णाः पुष्पकेशरा अस्य ।

Classifications


Properties


Classical Verse From Nighantu
6 verses
Source Varga Verse
कैयदेवनिघण्टु ओषधिवर्ग नागाह्वं नागकिञ्जल्कः केसरं नागकेसरम् | अहिपुष्पं हेमपुष्पं चाम्पेयं नागपुष्पकम् ||१३४५|| हिमाभं कनकं चेति दूरोहं नागरेणुकम् | नागपुष्पं कषायोष्णं तीक्ष्णं लघ्वामपाचनम् ||१३४६|| रूक्षं पित्तकफच्छर्दिखुडकण्डूविसर्पजित् | हृल्लासस्वेददौर्गन्ध्यकुष्ठतृष्णाविषापहम् ||१३४७||
धन्वन्तरिनिघण्टु शतपुष्पादिवर्ग नागपुष्पं मतं नागं केशरं नागकेशरम् | चाम्पेयं नागकिञ्जल्कं कनकं हेमकाञ्चनम् ||४९|| नागकेशरमल्पोष्णं लघु तिक्तं कफापहम् | बस्तिरुग्विषवातास्रकण्डूघ्नं शोफनाशनम् ||५०||
भावप्रकाशनिघण्टु कर्पूरादिवर्ग नागपुष्पः स्मृतो नागः केशरो नागकेशरः | चाम्पेयो नागकिञ्जल्कः कथितः काञ्चनाह्ययः ||५९|| नागपुष्पं कषायोष्णं रूक्षं लघ्वामपाचनम् | ज्वरकण्डूतृषास्वेदच्छर्दिहृल्लासनाशनम् | दौर्गन्ध्यकुष्ठवीसर्पकफपित्तविषापहम् ||६०||
मदनपालनिघण्टु कर्पूरादिवर्ग नागकेशरकं नागं चाम्पेयं केशरं गजम् | नागकेशरकं रूक्षमुष्णं लघ्वामपाचनम् | दौर्गन्ध्यकुष्ठवीसर्पकफपित्तविषापहम् ||३०||
राजनिघण्टु पिप्पल्यादिवर्ग किञ्जल्कं कनकाह्वं च केशरं नागकेशरम् | चाम्पेयं नागकिञ्जल्कं नागीयं काञ्चनं तथा ||१७६|| सुवर्णं हेमकिञ्जल्कं रुक्मं हेमं च पिञ्जरम् | फणिपुन्नागयोगादि केसरं पञ्चभूह्वयम् ||१७७|| नागकेसरमल्पोष्णं लघु तिक्तं कफापहम् | बस्तिवातामयघ्नं च कण्ठशीर्षरुजापहम् ||१७८||
सोढलनिघण्टु शतपुष्पादिवर्ग नागपुष्पे नतं नागं केशरं नागकेशरम् | चाम्पेयं नागकिञ्जल्कं कीर्तितं हेमनामभिः ||३१६||